March 28, 2025
Rahu Stotram in Sanskrit

Rahu Stotram in Sanskrit: राहु स्तोत्रम्

Rahu Stotram in Sanskrit

Rahu Stotram in Sanskrit: राहु स्तोत्रम्

अस्य श्रीराहुस्तोत्रस्य वामदेव ऋषिः । गायत्री छन्दः ।
राहुर्देवता । राहुप्रीत्यर्थं जपे विनियोगः ॥

राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः ।
अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः ।
ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥

कालदृष्टिः कालरुपः श्रीकष्ठहृदयाश्रयः ।
विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥

ग्रहपीडाकरो द्रष्टी रक्तनेत्रो महोदरः ।
पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥

यः पठेन्महती पीडा तस्य नश्यति केवलम् ।
विरोग्यं पुत्रमतुलां श्रियं धान्यं पशुंस्तथा ॥ ५ ॥

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।
सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥

॥ इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥

Shri Ramraksha Stotram श्री रामरक्षास्तोत्रम्

5/5 - (3 votes)

Leave a Reply

Your email address will not be published. Required fields are marked *

© Puzanam.com 2024-2025